“प्रेस विज्ञप्ति:”(संस्कृतम्)
२३ नवम्बर २०२१
“आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ”
उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा 2021-तमवर्षस्य अक्टूबरमासस्य २५ तमे दिनाङ्के विंशतिदिवसाय( प्रतिदिनं एकघण्टात्मककालाय ) प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य चतुर्थचक्रस्य शुभारम्भ: बहुत्र संजात: आसीत् यस्य सम्पूर्ति: नवम्बरमासस्य १८ दिनांके जातम् ।
एतस्मिन् एवं क्रमे नेपालस्य भरतपुरमहानगरपालिकाया: शारदानगर-टाउन-त: अपि उत्तरप्रदेशसंस्कृतस्थानस्य भाषाप्रशिक्षक: नूतनविष्णु: रेग्मी गूगलमीट्माध्यमेन प्रात: १२ वादने एवं सायं ६ वादने च प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य चतुर्थचक्रस्य द्वयो: कक्ष्ययो: अपि समापनमकरोत्।यत्र बहव: पंजीकृतजना: विभिन्नेभ्य: स्थानेभ्य: समागता आसन्। विंशतिदिवसेषु संस्कृतसंस्थानस्य प्रशिक्षक: नूतनविष्णु: रेग्मी विंशतिदिवसीयपाठ्यक्रमं पीपीटी-माध्यमेन शिबिरपद्धत्या सहजरूपेण सरलरूपेण चाबोधयत्।सर्वे पाठितविषयान् सम्यक् ज्ञात्वा तत्रैव अभ्यासमपि कृतवन्त:।अन्ते सर्वेषां जिज्ञासाया: उपशमनमपि तेन कृतम्।कक्ष्यैषा प्रतिदिनं प्रात: ११ वादनत: मध्याह्ने १२ वादनपर्यन्तम् एवं सायमपि ७ वादनत: ८ वादनपर्यन्तं चलति स्म। नवम्बरमासस्य १८ दिनांके सायं सप्तवादने परीक्षा अपि जाता । अग्रे उत्तीर्णवद्भ्य: प्रमाणपत्राणि अपि दातुं संस्थानेन व्यवस्था कृता अस्ति।वस्तुतस्तु संस्थानस्य समग्रकक्षा: तु प्रात: नववादनत: सायं ८ वादन-पर्यन्तं संस्थानस्य बहव: प्रशिक्षका: चालितवन्त:।
2021 तमे वर्षे एतावता उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालितायाः ओनलाईनसरलसंस्कृत सम्भाषणशिबिरयोजनायाः अन्तर्गत्वेन गतेषु चतुर्षु मासेषु प्रथमस्तरीयसंस्कृतभाषाशिक्षणाय सम्भवत: २५ सहस्राधिका: पंजीकृता:। येषु सम्भवत: १० सहस्राधिकानां ओनलाईनकक्षाभिः संस्थानेन शिक्षणं विहितम् ।एतेन एतत् परिदृश्यते यत् “सम्प्रति आधुनिकानां संस्कृतभाषायां अभिरुचि: वर्धमानास्ति” इति।
अग्रेऽपि ये एतां नि:शुल्क-कक्षामागन्तुकामा: ते “sanskritsambhashan.com” इति लिंक् उद्घाट्य तत्र स्वानुकूलतया मासं समयं च चीत्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति।ये प्रथमद्वितीयतृतीयचतुर्थचक्रे पठितवन्त: तेभ्य: द्वितीयस्तरस्य द्वितीयचक्रारम्भ: एवं अन्येभ्य: प्रथमस्तरस्य पंचमचक्रारम्भ: संस्थानेन पुन:आरप्स्यते ।संस्थानेन परीक्षायाम् उत्तीणवद्भ्य: शिक्षार्थिभ्य: क्रमेण प्रमाणपत्राणि अपि प्रेषयितुम् आरब्धानि। ये प्रथम-द्वितीयस्तराय नि:शुल्कं नामांकनं कर्तुमिच्छन्ति तेभ्य: नामांकानाय लिंक् “ https://sanskritsambhashan.com/ “इत्यस्ति।
वार्ताहर:-नूतनविष्णु: रेग्मी “प्रकृतिसाधु:”