संस्कृतभारती-गोरक्षप्रान्तस्य कार्यकर्तृसम्मेलनम्
संस्कृतभारत्या: गोरक्षप्रान्तेन २०२१तम-वर्षस्य मार्चमास्य षड्विंशे दिनांके शुक्रवासरे रात्रौ सार्ध-अष्टवादनत: सार्धनववादनपर्यन्तं गूगलमीट-माध्यमेन एकहोरात्मकम् आन्तर्जालिकं कार्यकर्तृसम्मेलनं विहितम्।एतस्य सम्मेलनकार्यक्रमस्य सम्यक् संचालनं डॉ. दिवाकरमणित्रिपाठीमहोदय: ( जनपदसंयोजक:[महराजगंज:]-संस्कृतभारती,गोरक्षप्रान्त:)कृतवान्।
सर्वादौ श्री: नागेशदूबेमहोदय: (सहप्रान्तमन्त्री-संस्कृतभारती,गोरक्षप्रान्त:) सुन्दरसंस्कृतगीतस्य मधुरस्वरेण गानमकरोत्।तत्पश्चात्
डॉ.जोखन पाण्डेयमहोदय:(प्रान्तमन्त्री-संस्कृतभारती,गोरक्षप्रान्त:) स्वागतभाषणपुरस्सरं सम्मेलनस्यास्य मुख्यवक्तृमहोदयस्य संस्कृतभारत्या: अखिलभारतीयशास्त्रसंरक्षणप्रकल्पप्रमुखस्य डॉ.संजीवमहोदयस्य परिचयं कारितवान्।
तदनन्तरम् डॉ. संजीवमहोदय: “नूतनशिक्षानीतौ संस्कृतशिक्षणम्” इति विषयोपरि स्वस्य सारगर्भितेन व्याख्यानेन सर्वान् तोषितवान्।
महोदयस्य सान्निध्ये तस्य प्रेरकं व्याख्यानं श्रोतुं तत्र आहत्य चत्वारिंशदधिका: संस्कृतानुरागिण:,माननीया:,शिक्षका:,छात्रा:कार्यकर्तारश्च समुपस्थिता: आसन्।
महोदयस्य व्याख्यानानन्तरं
श्री: रंजिततिवारीमहोद:(प्रान्तसम्पर्कप्रमुख:-संस्कृतभारती,गोरक्षप्रान्त:)
समुपस्थितानां सर्वेषां धन्यवादज्ञापनं कृतवान्।अन्ते
सामूहिकशान्तिमन्त्रोच्चारणेन आन्तर्जालिकस्य सम्मेलनस्यास्य समापनं जातम् ।
वार्ताहर:- नूतनविष्णु: रेग्मी(विभागप्रचारप्रमुख:-संस्कृतभारती,गोरक्षप्रान्त:)