रविवार, 21 मार्च 2021

संस्कृतभारती-गोरक्षप्रान्तस्य समीक्षायोजनागोष्ठी समाचरिता”

संस्कृतभारती-गोरक्षप्रान्तस्य समीक्षायोजनागोष्ठी समाचरिता”

संस्कृतभारत्या: गोरक्षप्रान्तेन २०२१तम-वर्षस्य मार्चमास्य २०-२१ दिनांकयो: (वि.सं.२०७७ फाल्गुशुक्लसप्तम्यष्टमीतिथ्यो:)द्विदिवसात्मिका प्रान्तसमीक्षायोजनागोष्ठी गोरक्षपुरस्थ-सरस्वतीशिशुमन्दिरस्य शिशुकुलछात्रावास-सभागारे समाचरिता ।
तत्र डॉ.जोखन पाण्डेयमहोदय:(प्रान्तमन्त्री)अध्यक्षत्वेन तथैव आचार्य: गणेशधरमहोदय:( प्रान्तशिक्षणप्रमुख:)
मुख्यातिथित्वेन च विराजितौ आस्ताम् । गोष्ठ्या: संचालनं श्रीनागेशदूबेमहोदय: (सहप्रान्तमन्त्री) कृतवान्।२० दिनांकस्य सायंकालीनसत्रे गोष्ठ्या: एकं सत्रं संजातम्। तत्र गोष्ठ्या: रूपरेखा निर्मिता।इतोऽपि केषुचन विषयेषु तत्र चर्चा संजाता।
२१ दिंनाकस्य प्रात:काले एकात्मतास्तोत्रस्य पारायणं सर्वै: कृतम्।
तदनन्तरम् अल्पाहारात् परं वैदिकमन्त्रोच्चारणपुरस्सरं दीपप्रज्ज्वलनम् अतिथिभि: कृतम्।अनन्तरं मंगलाचरणेन सत्रारम्भ: संजात:।तत्रादौ श्रीनागेशमहोदय: ध्येयमन्त्रं पठितवान् ।रंजिततिवारीमहोदयस्य संस्कृतगीतगानेन प्रथमं सत्रमारब्धम्। सत्रेऽस्मिन् श्रीनागेशमहोदय: सम्मान्यानाम् अतिथीनां परिचयं कारितवान्। तत: परं सर्वे उपस्थिता:  कार्यकर्तार: स्वस्य परिचयं दत्तवन्त:। आवर्षं कृतस्य समीक्षणं डॉ.जोखनमहोदयस्य मार्गदर्शनानुसारं सर्वै: कृतम्।समीक्षासम्बद्धा: बहव: विषया: तत्र चर्चिता:।
घंटाद्वयस्य प्रथमसत्रानन्तरं भोजनात्परं पुन: द्वितीयसत्रमारब्धम्। आदौ श्रीनागेशमहोदय: संस्कृतगीतगानं कृत्वा सत्रमारब्धवान्।द्वितीयेऽस्मिन् सत्रे वर्षे करणीयानां कार्याणां योजनानां विषये चर्चा संजाता।अस्मिन्नेव सत्रे अन्तर्जालमाध्यमेन काशीत:  अखिलभारतीयशास्त्रसंरक्षणप्रमुखस्य डॉ.संजीवमहोदयस्य उद्बोधनमपि सर्वै: श्रुतम्। तेन सर्वे प्रेरिता:।अस्मिन् सत्रे एव आगामिनैपुण्यवर्गस्य करणीयप्रवासस्य ,मासिकान्तर्जलिकमेलनस्य च विषयादिषु अपि चर्चा संजाता। कार्यकर्तृभि: कथं सक्रियतया कार्यं करणीयम् इति सत्रेनानेन सर्वे बोधिता:। अनन्तरं प्रान्तसम्पर्कप्रमुखपदभारस्वीकर्त्रे रंजिततिवारीमहोदयाय, प्रान्तप्रचारप्रमुखपदभारस्वीकर्त्रे  साध्वीनन्दनपाण्डेयमहोदयाय,सहप्रान्तप्रचारप्रमुखपदभारस्वीकर्त्रे श्रीप्रकाशमहोदयाय, विभागप्रचारप्रमुखपदभारस्वीकर्त्रे नूतनविष्णुरेग्मिणे च सर्वे वर्धापनानि दत्तवन्त:।
गोष्ठ्याम् आहत्य विंशत्यधिका: संस्कृतकार्यकर्तार: समुपस्थिता: आसन्।अन्ते
शान्तिमन्त्रं पठित्वा सामूहिकचित्रं स्वीकृत्य गोष्ठ्या: समापनं जातम् ।तत: सम्यक् जलपानादिकं स्वीकृत्य सर्वे स्वगन्तव्यं प्रस्थितवन्त:।

वार्ताहर:- नूतनविष्णु: रेग्मी(प्रकृतिसाधु:)

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ”

“प्रेस विज्ञप्ति:”(संस्कृतम्) २३ नवम्बर २०२१ “आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ” उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा 2021-तमवर्...