“लोभ: दुर्गतिदायक:”
पुराकाले गोमतीपुर-नामके नगरे कश्चित् वणिक्दम्पति: निवसति स्म। एकदा वणिक्स्त्री कथायां ब्राह्मणमुखात् श्रुतवती यत् “ य: अस्मिन् जन्मनि गोदानं करोति स: मृत्यो: अनन्तरं तस्या: गो: पुच्छसाहाय्येन वैतरणीं नदीं तरिष्यति ” इति। सा सायं गृहं गत्वा पतिम् एतां वार्तां श्रावितवती । वणिक् अतीव लोभी आसीत् अत: स: पूर्वं तु पत्न्या: वार्ताया: विरोधं करोति तथापि तस्या: बहु कथनानन्तरं मृण्मयीं गां दानं कर्तुं निर्णयं करोति । वणिक्पत्नी बुद्धिमती आसीत् अत: सा एकस्मिन् दिवसे स्वर्णापणं गत्वा स्वस्य सर्वाणि स्वर्णाभूषणानि विक्रीय तेषाम् एकां स्वर्णमयीं गां निर्मीय आनयति।सा गृहमागत्य गो: उपरि मृत्तिकया लेपनं कृत्वा यथा तस्या: पति: न जानीयात् तथा स्थापयति। वणिक्दम्पति: सप्ताहानन्तरं शुभमुहूर्ते हवनपूजादिकं कृत्वा योग्यब्राह्मणाय तां मृत्तिकया लेपितां गां पुच्छं स्पृष्ट्वा संकल्पपूर्वकं ददाति।वस्तुत: आभ्यन्तरे स्वर्णमयी सन्नपि सा गौ: बहिस्तात् तु मृण्मयी एव दृश्यते स्म। अत: तस्या: पत्यु: बुद्धौ सा गौ: मृण्मयी एव दृश्यते स्म । कालान्तरे तयो: देहावसानं भवति। दम्पत्यो: वैतरणीनदीं तर्तुं समये सा गौ: नदीतीरे आयाति।तौ तस्या: पुच्छं स्पृशत:।पूर्वं तु सा मृण्मयी एव आसीत्। परन्तु पश्चात् यदा सा नद्यां प्रविशति तदा तस्या: शरीरोपरि लेपिता मृत्तिका जलेन अपगच्छति। स्वर्णमयीं गां दृष्ट्वा वणिक् क्रुद्ध: भवति। स: भार्यायां कोपं करोति। वणिक् स्वां पत्नीं ताडयितुं यदा हस्तं गोपुच्छात् अपसारयति तदा एव स: वैतरण्यां नद्यां निमग्न: भवति। अन्तिमे गौ: वणिक्पत्नीं एव वैतरणीनदीं तारयति।
कथासार:-
लोभकरणेन बुद्धि: क्षीणा भवति । तदा असामयिक-कोपकारणेन व्यर्थमेव वणिक्वत् दुर्गति: संजायते।अत: लोभ: कदापि नैव करणीय:। आवश्यकतायां सत्यां वणिक्पत्नीवत् धनस्य सदुपयोग: अपि करणीय:।तेनैव सद्गति: निश्चयेन भवति।
वैतरण्यां हि सायाति
अस्माकं सुकृताद्धि वै ।गोदानं तेन कर्तव्यं
गाव: मोक्षप्रदायिका:।
लोभेन जायते भ्रष्टा,
बुद्धि: कल्मषहारिणी।
अत: लोभो न कर्तव्य:,
लोभ: दुर्गतिदायक:
लेखक:- नूतनविष्णुरेग्मी
(प्रकृतिसाधु:) भरतपुरम् -19,नेपालम्
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें