गुरुवार, 20 अगस्त 2020

संस्कृतालय - संस्कृतेन सर्वे वदन्तु

”संस्कृतालय” इति यूट्यूबचैनलमध्ये एकं संस्कृतलोकगीतम् प्रसारितं जातम्।गीतस्य शीर्षकम् “ संस्कृतेन सर्वे वदन्तु” इति अस्ति। गीतस्य संगीतम् श्रीमता संगीतकारेण नरहरिप्रेमीमहोदयेन दत्तम्। गीतस्यास्य गीतकार: नूतनविष्णु: रेग्मी अस्ति । गायकत्वेन नूतनविष्णुना साकं उपाध्यायभ्रातरौ(शिवांश:/ देवांश: च) अपि साहाय्यं कृतवन्तौ।गीतस्यास्य संगीतम् नरहरिमहोदयस्य पुरातनं नेपालीलोकपपगीतस्यैवास्ति।यद् धवलागिरिकैसेट्सेन्टरमाध्यमेन प्रसारितमासीत् पूर्वम्। मूलगीतमिदम् “भाका-२” इत्यस्यासीत् ।यत् नूतनविष्णुना सम्प्रति संस्कृतेन शब्दान् लिखित्वा प्रसारितम्। सम्पूर्णं गीतं इत्थम् अस्ति। अनेन सरलेन लोकगीतेन सामान्यसंस्कृतभाषाया: परिचयोऽपि भवति। अत्र गीतमिदं पठन्तु १.संस्कृतेन सर्वे वदन्तु , संस्कृतेन पठन्तु संस्कृतेन लिखन्तु , संस्कृतेन सर्वे वदन्तु ।       २. सप्त काकाराः प्रश्नार्थम् ,  किं , कुत्र, कति, कदा, कुत, कथं, किमर्थम्, सप्त ककाराः प्रश्नार्थम्  ।      ३. संस्कृतस्य चर्चा बहुत्र ,  अत्र तत्र अन्यत्र सर्वत्र एकत्र , संस्कृतस्य चर्चा बहुत्र ।    ४. इयं भाषा सर्वजननी ,  भाषासु मधुरा , गीर्वाणवाणी ,  इयं भाषा सर्व जननी ।    ५. संस्कृताय सदा भवामि,  जीवामि संस्कृताय एवं  तस्य सेवायै , संस्कृताय सदा भवामि । गीतस्य लिंक इदमस्ति। https://youtu.be/Phrkv1C3RKA

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ”

“प्रेस विज्ञप्ति:”(संस्कृतम्) २३ नवम्बर २०२१ “आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ” उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा 2021-तमवर्...