सोमवार, 25 मई 2020

गजः कीदृशः भवति? लेखकः-नूतनविष्णुरेग्मी

गज: कीदृश: भवति?
(प्रेरकप्रसंग:)

द्वारा-नूतनविष्णुरेग्मी
चत्वार: जना: अक्ष्णा काणा: आसन्।
ते एकदा गजविषये ज्ञातुं गजशालां गच्छन्ति।तत्र एक: गजरक्षक: आसीत् । स: तेषां जिज्ञासां शमयितुं तान् गजस्य समीपं नयति।ते गजं तु साक्षात् दृष्ट्वा ज्ञातुमसमर्था:। अत: ते क्रमश: गजं स्पृशन्ति।
प्रथम: काण: गजस्य पादं स्पृशन् वदति- “गज: स्तम्भसदृश: भवति।”

द्वितीय: काण: गजस्य पुच्छं स्पृशन्
वदति-“ गज: तु रज्जुवत् अस्ति।”

तृतीय: काण: गजस्य शूण्डं स्पृष्ट्वा वदति-“ सर्पसदृश: गज:” इति।

चतुर्थ: काणश्च गजस्य कर्णं स्पृशन् वदति-“  मित्राणि! गज: तु शूर्पसदृश: रे ।”

तेषां वाचं श्रुत्वा तत्रैव स्थित: गजरक्षक: तान् उद्दिश्य वदति।

भो: सखाय: ! भवन्त: गजस्य एकैकं  अंगं स्पृष्ट्वा तस्य स्वरूपं निर्धारितवन्त:। परन्तु गजे तानि सर्वाणि अपि अंगानि एकधा सन्ति। तेषां मेलनेनैव एक: गजस्य सम्पूर्णं शरीरं भवति। यदि भवन्त: तेषां सम्पूर्णं शरीरं स्प्रक्षन्ति तर्हि ज्ञास्यन्ति यद् गज: वास्तविकतया कथं भवति इति। तदनन्तरं ते सर्वे गजस्यं आशरीरं स्पष्ट्वा जानन्ति यत्  “गज: कीदृश: भवति?” इति।

आशय:- कस्यापि विषयस्य निर्धारणं तस्य सम्पूर्णावलोकनेन भवति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ”

“प्रेस विज्ञप्ति:”(संस्कृतम्) २३ नवम्बर २०२१ “आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ” उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा 2021-तमवर्...