गुरुवार, 7 मई 2020

बुद्धोपदेशाःप्रासंगिकाः -लेखिका -प्रो.कमला भारव्दाज संस्कृत भारती प्रांत प्रचार प्रमुखा

बुद्धपूर्णिमायाः शुभकामनाः।अशेषेSपि विश्वे वैशाखपूर्णिमा गौतमबुद्धजयंतीरूपेण समायोज्यते।भारतीय- संस्कृत्यां वैशाखपूर्णिमाथवा बुद्धपूर्णिमायाः विशिष्टं महत्त्वं विद्यते।अस्माकं परम्परायां महात्मा बुद्धः भगवतः विष्णोःनवमावतारः इति मान्यतास्ति।नकेवलं भारतेSपितु विश्वस्य प्रायः समस्तदेशेषु बुद्धजयन्ती, बुद्धत्वप्राप्तिदिवसःमहानिर्वाणप्राप्तिदिवसरूपेण चातिविशिष्टः।सर्वत्र पावनदिवसोSयं सश्रद्धं  समायोज्यते।बौद्धधर्मस्य संस्थापकःबुद्धःलोके पूज्यते।यद्यपि तस्य जन्म राजकुलेSभवत् परं राजभवनस्य ,सांसारिक भोगेषु च तस्यासक्तिर्नासीत्।।विवाहोपरांतं,पुत्रजन्मोपरांतमपि राजप्रासादं त्यक्त्वा नै कवर्षेभ्यःवनेषु तपः समाचरितम्। मानवकल्याणार्थं , जनानां दुखनिवृत्त्यर्थञ्च बुद्धस्य सार्वभौमिकाः सार्वकालिकाः
उपदेशाः लोके आध्यात्मिकोत्कर्षस्य मार्गं प्रदर्शयन्ति। तेषान्मते चत्वारि शाश्वत-
 सत्यान्यभिमतानि।
1.जन्म -मृत्यु- रोग- तृष्णा दीनि दुखस्य कारणानि।
2.इच्छा समस्तदुखानां कारणम्।
3.दुखानां नाशाय तृष्णाः 
नियन्त्रितव्याः।
4.सांसारिकदुखनिवृत्त्यर्थम् 
आष्टांगिकः मार्गोSथवा मध्यममार्गः श्रेयस्करः।
मध्यममार्गेण निर्वाणप्राप्तिः  भवितुं शक्यते।तेनोपदिष्टः
आष्टांगिकः मार्गोSप्यनुकरणीयः।
1.सम्यक् दृष्टिः-सत्यासत्ययोः,पापपुण्ययोः भेदावगमनम्।
2.सम्यक्संकल्पः-तृष्णा हिंसा च त्याज्या।
3.सम्यक्वाणी-सत्यविनम्रभावेन च वचनम्।
4.सम्यक्कर्म-सदैव संगतोतत्तमकार्याणाञ्च सम्पादनम्।
5.सम्यगाजीवः-जीविकोपार्जने सत्कर्माचरणम्।
6.सम्यक्स्मृतिः-सदाचरणम्
7.सम्यक्व्यायामः-दुर्भावना नामपाकरणम्।
8.सम्यक्समाधिः-एकान्तचित्तेन विचारः।
सर्वैरपि जनैःतस्योपदेशाः 
अनुसरणीयाः ,आत्मनः विश्वस्य च कल्याणाय  साम्प्रतिके युगेSपि तेषां प्रासंगिकता सिध्यति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ”

“प्रेस विज्ञप्ति:”(संस्कृतम्) २३ नवम्बर २०२१ “आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ” उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा 2021-तमवर्...