“प्रेस-विज्ञप्ति:”१६ सितम्बर २०२१(संस्कृतम्)
“द्वितीयचक्रे अपि ५ सहस्राधिका: संस्कृतानुरागिण: लाभान्विता:।”
*संस्कृतभाषां ये पाठयन्ति पठन्ति च ते सर्वे अपि परोपकारभावनया आप्लाविता: भवन्ति ।
-श्री: सतीशशर्मा
*संस्कृतभाषां प्रति अस्माकम् अधिकार: कर्तव्यं च द्वयमपि अस्ति।
- नूतनविष्णु: रेग्मी
*यदा हनुमान् लंकाया : अशोकवाटिकायां सीतामात्रा सह अमिलत् तदा द्वयो: परस्परं सम्वादमाध्यमं संस्कृतमेवासीत्।
-डा.छविलाल: न्यौपाने
*संस्कृतभाषा कठिना न अपि तु अतिसरला अस्ति।
-श्रीमती दीपलता उपाध्याय
-उत्तरप्रदेशसर्वकारस्य भाषाविभागान्तर्गतस्य लखनऊस्थ-उत्तरप्रदेशसंस्कृत संस्थानस्य २० दिवसीय प्रथमस्तरीय-आनलाइन-संस्कृत सम्भाषणयोजनाया: द्वितीयचक्रे संस्कृत कक्ष्याया: २०अगस्त २०२१ इति दिनांके उद्घाटनसमारोह: आसीत् ।तस्या: एव कक्ष्याया: समापनसमारोह: सम्पूर्णे प्रदेशे १६ सितम्बर २०२१ इति दिनांके समाचरित:। अस्मिन् एव क्रमे सन्तकबीरनगरस्य श्रीरामशंकरसंस्कृतविद्यापीठम् कोडरात: अपि संस्थानस्य संस्कृतभाषा प्रशिक्षक: नूतनविष्णु: रेग्मी गूगलमीट-माध्यमेन अस्य समापनकार्यक्रमस्य आयोजनं सायं ४ वादने अकरोत्।। यस्मिन् विशिष्टातिथि: उत्तरप्रदेशस्य गढमुक्तेश्वरसमीपे व्रजघट्टे अन्नपूर्णागुरुकुलत: संस्कृतभारत्या: बरेलीप्रान्तस्य कार्यकर्ता गुरुकुलसंचालक: श्री: सतीशशर्मा आसीत् ।कार्यक्रमस्य शुभारंभ: हरियाणात: शिक्षार्थी कपीश: वैदिकमंगलाचरणेन एवं जौनपुरत: छायात्रिपाठी लौकिकमंगलाचरणेन च अकुरुताम्।कार्यक्रमस्य मुख्यातिथि:/अध्यक्षश्च देहलीत: संस्कृत-अध्यापक तथा ONLINE SANSKRIT UNIVERSITY (YOUTUBE CHANNEL) इत्यस्य स्रष्टा एवं संस्कृतभारत्या: देहलीप्रान्तस्य कार्यकर्ता डा. छविलाल: न्यौपाने आसीत् । स: स्वस्य संस्कृतभाषायां प्रेरक-उद्बोधनेन सर्वान् प्रेरितवान् ।तथैव कार्यक्रमस्य विशिष्टातिथि: श्री: सतीशशर्मा कथितवान् यत् “अग्रे अपि संस्कृतभाषया सह सम्बद्धा: भवन्तु ।तदैव कक्ष्याया: सार्थकता भविष्यति “इति। सारस्वत-अतिथि: देहलीत: एव शास्त्रीयसंगीतस्य गायिका /समाजसेविका/कवयित्री श्रीमती दीपलताउपाध्यायमहोदया स्वस्य सुमधुरस्वरेण सुन्दरं संस्कृतगीतं प्रस्तुतवती । प्रशिक्षक: नूतनविष्णु: रेग्मी अपि नविनतमतकनीकमाध्यमेन संस्कृतकक्ष्याया: संचालनस्य स्व-नूतन-अनुभवं कथयित्वा उक्तवान् यत् “संस्कृतस्य प्रचार: न केवलं देशे एव विदेशेषु अपि करणीय:। ।सीतापुरत: दीनदयालशुक्ल:
(सहप्रशिक्षक:)अपि अस्मिन् कार्यक्रमे सम्बद्ध: आसीत् । शिक्षार्थिषु उर्मिला(हिमाचल प्रदेशत:) अनुशिखाघोषाल (झारखंडत:)सिद्धांत:(गोवात:) श्रीधर:(जर्मनीत:) च कक्ष्याया: अनुभवं श्रावितवन्त:। शिक्षार्थी सागर:(पश्चिमबंगत:) संस्कृतगीतमश्रावयत्।ऐश्वर्यापरब(महाराष्ट्रत: ) “राघवयादवीयम्”इति काव्यस्य अद्भुतं श्लोकवर्णनं कृतवती।समृद्धि: (उत्तरप्रदेशत:) श्रीमद्भगवद्गीताया: १२ अध्यायस्य कण्ठस्थं पाठं श्रावितवती ।
२० दिनानां कक्ष्यानन्तरं १५ सितम्बर २०२१ दिनांके सायंकाले ७-८ वादने परीक्षा आसीत् ।यस्यां ९५% उत्तीर्णा:।तस्यां उत्तीर्णतां लब्धशिक्षार्थिनां कृते संस्थानं शीघ्रमेव प्रमाणपत्राणि अपि दास्यति । कार्यक्रमे ४०-५० शिक्षार्थिन: उपस्थिता: आसन्।
कक्ष्याया: अबाधगत्या संचालने सन्तकबीरनगरस्य श्रीरामशंकरसंस्कृत विद्यापीठस्य प्राचार्यस्य डा.हरि प्रसादसिंहवर्यस्यापि महती भूमिका आसीत् ।अत:स: विशेषतया प्रशंसनीय:।
प्रथमस्तरीयस्य प्रथमद्वितीयचक्रयो: उत्तीर्णा: छात्रा: अग्रे संस्थानस्य द्वितीयस्तरीयसम्भाषणकक्ष्याया: कृते अपि नामांकनं करिष्यन्ति।संस्थानस्य एतया योजनया देशस्य विदेशस्य च बहव: संस्कृतानुरागिण: लाभान्विता: सन्ति । एतत्महत्कर्मण: कृते योगीसर्वकार:, यूपीसंस्कृतसंस्थानम्,संस्थानस्य अध्यक्ष: डा वाचस्पतिमिश्रवर्य: ,निदेशक: IAS पवनकुमारवर्य:,प्रशिक्षणप्रमुख: श्री: सुधीष्टकुमारमिश्रवर्य:,योजनाया: क्रियान्वयनसदस्या: प्रशिक्षकाश्च सर्वे अपि धन्यवादार्हा: सन्ति ।योजनाया: प्राणभूता: छात्रा:अपि वर्धापनयोग्या: सन्ति।
अग्रेऽपि ये एतां नि:शुल्क-ONLINE कक्षामागन्तुकामा: सन्ति ते 9522340003 इति दूरभाषसंख्यायां मिस्डकाल कृत्वा प्राप्तसन्देशे आगत-लिंक् उद्घाट्य तत्र स्वानुकूलमासे समये च स्वस्य नामांकनं नि:शुल्कं कारयितुं शक्नुवन्ति।नामांकानाय लिंक् “sanskritsambhashan.com”इत्यस्ति।
संवाददाता-नूतनविष्णु:रेग्मी
“प्रकृतिसाधु:”
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें