बुधवार, 22 सितंबर 2021

प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य तृतीयचक्रारम्भ:”उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा

“प्रेस विज्ञप्ति:”(संस्कृतम्)
२१ सितम्बर २०२१

“प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य तृतीयचक्रारम्भ:”
उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा 2021-तमवर्षस्य सितम्बरमासस्य २१-तमे दिनाङ्के विंशतिदिवसीयाय ( प्रतिदिनं यावत् घण्टात्मककालाय ) प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य तृतीयचक्राय ३६१८ पञ्जीकृतवद्भ्यः समुपस्थितेभ्यः प्रशिक्षार्थिभ्यः उत्तरप्रदेशसंस्कृतसंस्थानस्य ४१ संस्कृतभाषाप्रशिक्षकैः ४१ कक्ष्यासु शिक्षणं समारब्धम् ।प्रथमचक्रे 8533 शिक्षार्थिनः पञ्जीकृताः । तेषु 2472 कक्ष्यासु समुपस्थिताः । अन्ते 1390 शिक्षार्थिनः परीक्षां लिखितवन्तः । तेषु 1207 शिक्षार्थिनः समुत्तीर्णा: ।द्वितीयचक्रे अपि ५३२९ शिक्षार्थिन: आसन् ।
एतस्मिन् एवं क्रमे गोरक्षपुरस्य गोरक्षनाथविद्यापीठत: अपि उत्तरप्रदेशसंस्कृतस्थानस्य भाषाप्रशिक्षक: नूतनविष्णु: रेग्मी गूगलमीट्माध्यमेन मध्याह्नोत्तरे ३ वादने प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य तृतीयचक्रारम्भमकरोत्।यत्र ५० पंजीकृतजना: देशस्य विभिन्नेभ्य: स्थानेभ्य: पठितुमागता:।उद्धाटनसत्रमिति कारणत: आदौ नूतनविष्णु: मंगलाचरणादिकं विधाय छात्रान् पृष्टवान् यत् ते किमर्थम् संस्कृतं पठितुमागता:? इति।तदा सर्वे उत्तमानि कारणानि उक्तवन्त:।तत: नूतनविष्णु: रेग्मी अपि  संस्कृतस्य महत्वं उपयोगितां च किंचित् प्रतिपाद्य संस्थानेन निर्मितपाठ्यक्रमं पीपीटी-द्वारा शिबिरपद्धत्या सहजरूपेण सरलरूपेण चाबोधयत्।सर्वे पाठितविषयान् सम्यक् ज्ञात्वा तत्रैव अभ्यासमपि कृतवन्त:।अन्ते सर्वेषां जिज्ञासाया: उपशमनमपि तेन कृतम्।कक्ष्यायां सहप्रशिक्षक: दीनदयाल: महोदय: अपि समुपस्थित: आसीत्।स: चैटबक्समाध्यमेन छात्राणां प्रश्नानां उत्तरं अददात्।कक्ष्यैषा प्रतिदिनं मध्याह्नोत्तरे ३ वादनत: ४ वादनपर्यन्तं चलति । एषा कक्ष्या १२ अक्टूबर पर्यन्तम् चलति ।अन्ते परीक्षा अपि भविष्यति । उत्तीर्णवद्भ्य: प्रमाणपत्राणि अपि दातुं व्यवस्था अस्ति।वस्तुतस्तु संस्थानस्य समग्रकक्षा:  (४१ बैच  ) तु प्रात: नववादनत: सायं ८ वादन-पर्यन्तं संस्थानस्य ४१ प्रशिक्षका: चालयन्त: सन्ति।
एतावता आहत्य 17480 (8533+5329+3618) पञ्जीकृता:  शिक्षार्थिनः 132(47+44+41) कक्ष्यासु संस्कृतभाषाध्ययनाय विभाजिता: ।अग्रेऽपि ये एतां  नि:शुल्क-कक्षामागन्तुकामा: ते 9522340003 इति दूरभाषसंख्यायां मिस्डकाल कृत्वा सन्देशे आगत-लिंक् उद्घाट्य तत्र स्वानुकूलतया मासं समयं च चीत्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति।ये प्रथमद्वितीयचक्रे पठितवन्त: तेभ्य: शीघ्रं द्वितीयस्तरस्य प्रशिक्षणमपि दातुं योजना अस्ति संस्थानस्य।संस्थानेन परीक्षायाम् उत्तीणवद्भ्य: शिक्षार्थिभ्य: क्रमेण प्रमाणपत्राणि अपि प्रेषयितुम् आरब्धानि। ये नि:शुल्कं नामांकनं कर्तुमिच्छन्ति तेभ्य: नामांकानाय लिंक् “sanskritsambhashan.com”इत्यस्ति।

वार्ताहर:-नूतनविष्णु: रेग्मी “प्रकृतिसाधु:”

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ”

“प्रेस विज्ञप्ति:”(संस्कृतम्) २३ नवम्बर २०२१ “आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ” उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा 2021-तमवर्...