“प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य द्वितीयचक्रारम्भ:”
उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा 2021-तमवर्षस्य अगस्तमासस्य 20-तमे दिनाङ्के संस्कृतसप्ताहावसरे विंशतिदिवसीयाय ( प्रतिदिनं यावत् घण्टात्मककालाय ) प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य द्वितीयचक्राय 5329 पञ्जीकृतवद्भ्यः उत्तरप्रदेशसंस्कृतसंस्थानस्य 36 संस्कृतभाषाप्रशिक्षकैः 44 कक्ष्यासु 2032 समुपस्थितेभ्यः प्रशिक्षार्थिभ्यः शिक्षणं समारब्धम् ।प्रथमचक्रे 8533 शिक्षार्थिनः पञ्जीकृताः । तेषु 2472 कक्ष्यासु समुपस्थिताः । अन्ते 1390 शिक्षार्थिनः परीक्षां लिखितवन्तः । तेषु 1207 शिक्षार्थिनः समुत्तीर्णा: ।
एतस्मिन् एवं क्रमे सन्तकबीरनगरजनपदत: अपि उत्तरप्रदेशसंस्कृतस्थानस्य भाषाप्रशिक्षक: नूतनविष्णु: रेग्मी गूगलमीट्माध्यमेन सायं 5 वादने प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य द्वितीयचक्रारम्भमकरोत्।यत्र द्विपंचाशत् पंजीकृतजना: देशस्य विभिन्नेभ्य: स्थानेभ्य: पठितुमागता:।उद्धाटनसत्रमिति कारणत: आदौ नूतनविष्णु: मंगलाचरणादिकं विधाय संस्कृतस्य महत्वं उपयोगितां च प्रतिपादितवान्। तदनन्तरं संस्थानेन निर्मितपाठ्यक्रमं पीपीटी-द्वारा शिबिरपद्धत्या सहजरूपेण सरलरूपेण चाबोधयत्।सर्वे पाठितविषयान् सम्यक् ज्ञात्वा तत्रैव अभ्यासमपि कृतवन्त:।कक्षैषा प्रतिदिनं सायं ५वादनत: ६ वादनपर्यन्तं चलति । वस्तुतस्तु संस्थानस्य समग्रकक्षा: (४४ बैच ) तु प्रात: नववादनत: सायं ८ वादन-पर्यन्तं संस्थानस्य ३६ प्रशिक्षका: चालयन्त: सन्ति।
एतावता आहत्य 13862 (8533+5329) पञ्जीकृतवत्सु 4504 (2472+2032) शिक्षार्थिनः 91(47+44) कक्ष्यासु समुपस्थिताः ।अग्रेऽपि ये एतां नि:शुल्क-कक्षामागन्तुकामा: ते 9522340003 इति दूरभाषसंख्यायां मिस्डकाल कृत्वा सन्देशे आगत-लिंक् उद्घाट्य तत्र स्वानुकूलतया स्वस्य नामांकनं कारयितुं शक्नुवन्ति।नामांकानाय लिंक् “sanskritsambhashan.com”इत्यस्ति।
“प्रकृतिसाधु:”
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें