सोमवार, 16 अगस्त 2021

“प्रथमस्तरीय-आनलाईनसंसकृतसम्भाषणकक्ष्या”(यूपीसंस्थानस्य विशिष्टा एवम् अनुपमेया योजना)

प्रेसविज्ञप्ति: ११/०८/२०२१

“प्रथमस्तरीय-आनलाईनसंसकृतसम्भाषणकक्ष्या”
(यूपीसंस्थानस्य विशिष्टा एवम् अनुपमेया योजना)

लखनऊस्थ-उत्तरप्रदेशसंस्कृतसंस्थानेन प्रदेशे बहुत्र संचालिताया: विंशतिदिवसीय-(२० जुलै २०२१ त: १० अगस्ट २०२१ पर्यन्तम्)आनलाईनसंस्कृतसम्भाषणकक्ष्याया: समापनसत्रसमारोह: ११/०८/२०२१ तमे दिनांके मध्याह्नोत्तर-त्रिवादने गूगलमीटमाध्यमेन बहुत्र समाचरित:।तस्मिन् एव क्रमे गोरक्षपुरत: संयोजितस्य समापनसमारोहस्य मुख्यातिथि:  जम्बूकश्मीरत: डा. मधुसूदनमिश्रमहोदय:  आसीत् ।कार्यक्रमस्यास्य संचालनं व्रजघट्टत: संस्थानस्यैव संस्कृत-प्रशिक्षक: श्री: सतीशशर्ममहाभाग: कृतवान्।सत्रस्य संयोजनमपि संस्थानस्यैव संस्कृतप्रशिक्षकेण नूतनविष्णुरेग्मिणा गोरक्षपुरस्य गोरक्षनाथसंस्कृतविद्यापीठत: कृतम्।तत्र सर्वादौ मंगलाचरणं कक्षाया: वयोवृद्ध: छात्र: पीयूषटण्डनमहोदय: कृतवान्।योजनाया: सामूहिकसमुद्घाटनं तु लखनऊस्थ-यूपीसंस्कृतसंस्थानत: २०जुलै २०२१ तमे दिनांके जातमासीत्।११/८/२१ दिनांके प्रथमस्तरीयसंस्कृतसम्भाषणकक्षाया: समापनसमारोहेऽस्मिन् मुख्यातिथित्वेन समागत: डा.मधुसूदनमहोदय: संस्कृतभाषाया: महत्वं चर्चयन् उक्तवान् यत् अस्माभि: पाश्चात्यसंस्कृते: अन्धानुकरणं नैव करणीयमिति।तदनु छात्रेषु पीयूषमहोदय:,नीतामहोदया,अमिषमहोदय:,मदनमहोदय:,सीमामहोदया,नीलममहोदया,विप्लवमहोदय:,फणिराजमहोदय:,योगेन्द्रमहोदय:,निधिमहोदया ,सुभद्रामहोदया,सुब्रतमहोदयश्च अहमहमिकया अग्रे आगत्य स्वानुभवं संस्कृतभाषायामेव कथयितुं प्रयत्नं कृतवन्त: । तत्रैव केचन बालगीतं,देशभक्तिगीतमपि अगायन्।तदनन्तरम् संचालक: सतीशमहोदय:  जनानां हृदये संस्कृतभाषां प्रति रुचि: कथमागच्छेत् इति विषयं कथयित्वा स्वस्य आनलाइनकक्षा-पाठनानुभवमकथयत्। तत्रैव कार्यक्रमस्य संयोजक: नूतनविष्णु: 
अपि कक्ष्यायां स्वस्य पाठनानुभवं कथयित्वा संस्कृतभाषापठनलाभान् गणयित्वा सर्वान्  प्रेरितवान्।द्वावपि संस्कृतभाषायां यथा प्रीति: वर्धेत तथा उद्बोधितवन्तौ। एतेषां परीक्षा १०/८/२१ दिनांके आसीत्। ९९% छात्रा: सम्यक् अंकान् प्राप्य उत्तीर्णा: अभवन्। एतेभ्य: प्रमाणपत्रमपि प्रदास्यते शीघ्रमेव।भविष्ये एते एव छात्रा: संस्थानस्य द्वितीयस्तरीयसम्भाषणकक्षायामपि नामांकनं कारयिष्यन्ति। १५ अगस्तत: परम् आरभ्यमाणप्रथमस्तरीयकक्षाया: कृते एतै: छात्रै: स्वपरिचितजनद्वारा +91 9522340003 इत्यत्र मिस्डकाल कारयित्वा उत्तरप्रदेशसंस्कृतसंस्थानस्य वेवसाईटत: नामांकनमपि कारितमस्ति।वस्तुत: संस्थानस्य एतया योजनया देशस्य बहव: जना: लाभान्विता:।य: कोऽपि अत्र +91 9522340003 मिस्डकाल कृत्वा आगतं सन्देशमुद्घाट्य तल्लिंक्द्वारा नामांकनं कारयितुं शक्नोति ।एतत्महत्कर्मण: कृते योगीसर्वकार:, संसथानम्,संस्थानस्य अध्यक्ष:,निदेशक:,योजनाया: क्रियान्वयनसदस्या:  ,प्रशिक्षकाश्च सर्वे अपि धन्यवादार्हा: वर्धापनयोग्या: च सन्ति ।एषा प्रथमस्तरीयसंस्कृतसम्भाषणकक्षा उत्तरप्रदेशे विभिन्नेभ्य: स्थानेभ्य : संस्थानस्य बहव: प्रशिक्षका: चालितवन्त: येन सहश्रश-छात्रा : लाभान्विता: जाता:।इत्थम् अन्ते शान्तिमन्त्रेण एष: कार्यक्रम: समाप्तिं गत:।

संवाददाता- नूतनविष्णु: रेग्मी (प्रकृतिसाधु:)

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ”

“प्रेस विज्ञप्ति:”(संस्कृतम्) २३ नवम्बर २०२१ “आधुनिकानां संस्कृतभाषायां वर्धमानाभिरुचि: ” उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा 2021-तमवर्...